धनवंतरि स्तोत्र
धनवंतरि स्तोत्र ॐ शंखं चक्रं जलौकां दधदमृतघटं चारुदोर्भिश्चतुर्मिः । सूक्ष्मस्वच्छातिहृद्यांशुक परिविलसन्मौलिमंभोजनेत्रम ॥ कालाम्भोदोज्ज्वलांगं कटितटविलसच्चारूपीतांबराढ्यम । वन्दे धन्वंतरिं तं निखिलगदवनप्रौढदावाग्निलीलम ॥ यो विश्वं विदधाति पाति-सततं संहारयत्यंजसा। सृष्ट्वा दिव्यमहोषधींश्च-विविधान् दूरीकरोत्यामयान्।। विंभ्राणों जलिना चकास्ति-भुवने पीयूषपूर्ण घटम्। तं धन्वंतरीरूपम् इशम्-अलम् वन्दामहे श्रेयसे।।