Posts

Showing posts from June 25, 2023

पृथ्वी स्तोत्रम्

Image
पृथ्वी स्तोत्रम  विष्णुरुवाच - यज्ञसूकरजाया त्वं जयं देहि जयावहे । जयेऽजये जयाधारे जयशीले जयप्रदे ॥ १॥ सर्वाधारे सर्वबीजे सर्वशक्तिसमन्विते । सर्वकामप्रदे देवि सर्वेष्टं देहि मे भवे ॥ २॥ सर्वशस्यालये सर्वशस्याढ्ये सर्वशस्यदे । सर्वशस्यहरे काले सर्वशस्यात्मिके भवे ॥ ३॥ मङ्गले मङ्गलाधारे मङ्गल्ये मङ्गलप्रदे । मङ्गलार्थे मङ्गलेशे मङ्गलं देहि मे भवे ॥ ४॥ भूमे भूमिपसर्वस्वे भूमिपालपरायणे । भूमिपाहङ्काररूपे भूमिं देहि च भूमिदे ॥ ५॥ इदं स्तोत्रं महापुण्यं तां सम्पूज्य च यः पठेत् । कोटिकोटि जन्मजन्म स भवेद् भूमिपेश्वरः ॥ ६॥ भूमिदानकृतं पुण्यं लभते पठनाज्जनः । भूमिदानहरात्पापान्मुच्यते नात्र संशयः ॥ ७॥ भूमौ वीर्यत्यागपापाद् भूमौ दीपादिस्थापनात् । पापेन मुच्यते प्राज्ञः स्तोत्रस्य पाठनान्मुने । अश्वमेधशतं पुण्यं लभते नात्र संशयः ॥ ८॥ इति श्रीब्रह्मवैवर्तमहापुराणे प्रकृतिखण्डे विष्णुकृतं पृथ्वीस्तोत्रं सम्पूर्णम् । हिन्दी भावार्थ - भगवान् विष्णु बोले -- विजयकी प्राप्ति करानेवाली वसुधे ! मुझे विजय दो । तुम भगवान् यज्ञवराहकी पत्नी हो । जये! तुम्हारी कभी पराजय नहीं होती है । तुम विजयका आ