Posts

Showing posts from February 13, 2022

श्रीसरस्वत्यै देवीस्तोत्रम्

Image
 ।। श्रीसरस्वत्यै  देवीस्तोत्रम् ।। श्रीसरस्वत्यै नमः । श्री शारदे (सरस्वति)!  नमस्तुभ्यं जगद्भवनदीपिके । विद्वज्जनमुखाम्भोजभृङ्गिके!  मे मुखे वस ॥ १॥ वागीश्वरि!  नमस्तुभ्यं नमस्ते हंसगामिनि! । नमस्तुभ्यं जगन्मातर्जगत्कर्त्रिं!  नमोऽस्तु ते ॥ २॥ शक्तिरूपे!  नमस्तुभ्यं कवीश्वरि!  नमोऽस्तु ते । नमस्तुभ्यं भगवति!  सरस्वति!  नमोऽस्तुते ॥ ३॥ जगन्मुख्ये नमस्तुभ्यं वरदायिनि!  ते नमः । नमोऽस्तु तेऽम्बिकादेवि!  जगत्पावनि!  ते नमः ॥ ४॥ शुक्लाम्बरे!  नमस्तुभ्यं ज्ञानदायिनि!  ते नमः । ब्रह्मरूपे!  नमस्तुभ्यं ब्रह्मपुत्रि!  नमोऽस्तु ते ॥ ५॥ विद्वन्मातर्नमस्तुभ्यं वीणाधारिणि!  ते नमः । सुरेश्वरि!  नमस्तुभ्यं नमस्ते सुरवन्दिते! ॥ ६॥ भाषामयि!  नमस्तुभ्यं शुकधारिणि!  ते नमः । पङ्कजाक्षि!  नमस्तुभ्यं मालाधारिणि!  ते नमः ॥ ७॥ पद्मारूढे!  नमस्तुभ्यं पद्मधारिणि!  ते नमः । शुक्लरूपे नमस्तुभ्यं नमञ्जिपुरसुन्दरि ॥ ८॥ श्री(धी)दायिनि!  नमस्तुभ्यं ज्ञानरूपे!  नमोऽस्तुते । सुरार्चिते!  नमस्तुभ्यं भुवनेश्वरि!  ते नमः ॥ ९॥ कृपावति!  नमस्तुभ्यं यशोदायिनि!  ते नमः । सुखप्रदे!  नमस्तुभ्यं नमः सौभाग्यवर्द्ध