Posts

Showing posts from April 2, 2023

सुर्य मंडल स्तोत्रम्

Image
सूर्य मंडल स्तोत्रम् नमोऽस्तु सूर्याय सहस्ररश्मये सहस्रशाखान्वित संभवात्मने । सहस्रयोगोद्भव भावभागिने सहस्रसंख्यायुधधारिणे नमः ॥ 1 ॥ यन्मंडलं दीप्तिकरं विशालं रत्नप्रभं तीव्रमनादिरूपम् । दारिद्र्यदुःखक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम् ॥ 2 ॥ यन्मंडलं देवगणैः सुपूजितं विप्रैः स्तुतं भावनमुक्तिकोविदम् । तं देवदेवं प्रणमामि सूर्यं पुनातु मां तत्सवितुर्वरेण्यम् ॥ 3 ॥ यन्मंडलं ज्ञानघनंत्वगम्यं त्रैलोक्यपूज्यं त्रिगुणात्मरूपम् । समस्ततेजोमयदिव्यरूपं पुनातु मां तत्सवितुर्वरेण्यम् ॥ 4 ॥ यन्मंडलं गूढमतिप्रबोधं धर्मस्य वृद्धिं कुरुते जनानाम् । यत्सर्वपापक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम् ॥ 5 ॥ यन्मंडलं व्याधिविनाशदक्षं यदृग्यजुः सामसु संप्रगीतम् । प्रकाशितं येन च भूर्भुवः स्वः पुनातु मां तत्सवितुर्वरेण्यम् ॥ 6 ॥ यन्मंडलं वेदविदो वदंति गायंति यच्चारणसिद्धसंघाः । यद्योगिनो योगजुषां च संघाः पुनातु मां तत्सवितुर्वरेण्यम् ॥ 7 ॥ यन्मंडलं सर्वजनैश्च पूजितं ज्योतिश्च कुर्यादिह मर्त्यलोके । यत्कालकालाद्यमनादिरूपं पुनातु मां तत्सवितुर्वरेण्यम् ॥ 8 ॥ यन्मंडलं विष्णुचतुर्मुखाख्यं यद