श्रीसरस्वत्यै देवीस्तोत्रम्

 ।। श्रीसरस्वत्यै  देवीस्तोत्रम् ।।
श्रीसरस्वत्यै नमः ।
श्री शारदे (सरस्वति)!  नमस्तुभ्यं जगद्भवनदीपिके ।
विद्वज्जनमुखाम्भोजभृङ्गिके!  मे मुखे वस ॥ १॥

वागीश्वरि!  नमस्तुभ्यं नमस्ते हंसगामिनि! ।
नमस्तुभ्यं जगन्मातर्जगत्कर्त्रिं!  नमोऽस्तु ते ॥ २॥

शक्तिरूपे!  नमस्तुभ्यं कवीश्वरि!  नमोऽस्तु ते ।
नमस्तुभ्यं भगवति!  सरस्वति!  नमोऽस्तुते ॥ ३॥

जगन्मुख्ये नमस्तुभ्यं वरदायिनि!  ते नमः ।
नमोऽस्तु तेऽम्बिकादेवि!  जगत्पावनि!  ते नमः ॥ ४॥

शुक्लाम्बरे!  नमस्तुभ्यं ज्ञानदायिनि!  ते नमः ।
ब्रह्मरूपे!  नमस्तुभ्यं ब्रह्मपुत्रि!  नमोऽस्तु ते ॥ ५॥

विद्वन्मातर्नमस्तुभ्यं वीणाधारिणि!  ते नमः ।
सुरेश्वरि!  नमस्तुभ्यं नमस्ते सुरवन्दिते! ॥ ६॥

भाषामयि!  नमस्तुभ्यं शुकधारिणि!  ते नमः ।
पङ्कजाक्षि!  नमस्तुभ्यं मालाधारिणि!  ते नमः ॥ ७॥

पद्मारूढे!  नमस्तुभ्यं पद्मधारिणि!  ते नमः ।
शुक्लरूपे नमस्तुभ्यं नमञ्जिपुरसुन्दरि ॥ ८॥

श्री(धी)दायिनि!  नमस्तुभ्यं ज्ञानरूपे!  नमोऽस्तुते ।
सुरार्चिते!  नमस्तुभ्यं भुवनेश्वरि!  ते नमः ॥ ९॥

कृपावति!  नमस्तुभ्यं यशोदायिनि!  ते नमः ।
सुखप्रदे!  नमस्तुभ्यं नमः सौभाग्यवर्द्धिनि! ॥ १०॥

विश्वेश्वरि!  नमस्तुभ्यं नमस्त्रैलोक्यधारिणि ।
जगत्पूज्ये!  नमस्तुभ्यं विद्यां देहि (विद्यादेवी) महामहे ॥ ११॥

श्रीर्देवते!  नमस्तुभ्यं जगदम्बे!  नमोऽस्तुते ।
महादेवि!  नमस्तुभ्यं पुस्तकधारिणि!  ते नमः ॥ १२॥

कामप्रदे नमस्तुभ्यं श्रेयोमाङ्गल्यदायिनि ।
सृष्टिकर्त्रिं!  स्तुभ्यं सृष्टिधारिणि!  नमः ॥ १३॥

जगद्धिते!  नमस्तुभ्यं नमः संहारकारिणि! ।
विद्यामयि!  नमस्तुभ्यं विद्यां देहि दयावति! ॥ १४॥

अथ लक्ष्मीनामानि -
महालक्ष्मि नमस्तुभ्यं पीतवस्त्रे नमोऽस्तु ते ।
पद्मालये!  नमस्तुभ्यं नमः पद्मविलोचने ॥ १५॥

सुवर्णाङ्गि नमस्तुभ्यं पद्महस्ते नमोऽस्तु ते ।
नमस्तुभ्यं गजारूढे विश्वमात्रे नमोऽस्तु ते ॥ १६॥

शाकम्भरि नमस्तुभ्यं कामधात्रि नमोऽस्तु ते ।
क्षीराब्धिजे नमस्तुभ्यं शशिस्वस्रे नमोऽस्तु ते ॥ १७॥

हरिप्रिये!  नमस्तुभ्यं वरदायिनि ते नमः ।
सिन्दूराभे नमस्तुभ्यं नमः सन्मतिदायिनि ॥ १८॥

ललिते!  च नमस्तुभ्यं वसुदायिनि ते नमः ।
शिवप्रदे नमस्तुभ्यं समृद्धिं देहि मे रमे! ॥ १९॥

अथ योगिनीरूपाणि -
गणेश्वरि! नमस्तुभ्यं दिव्ययोगिनि ते!  नमः ।
विश्वरूपे!  नमस्तुभ्यं महायोगिनि! ते नभः ॥ २०॥

भयङ्करि! नमस्तुभ्यं सिद्धयोगिनि! ते नमः ।
चन्द्रकान्ते!  नमस्तुभ्यं चक्रेश्वरि! नमोऽस्तु ते ॥ २१॥

पद्मावति!  नमस्तुभ्यं रुद्रवाहिनि! ते नमः ।
परमेश्वरि!  नमस्तुभ्यं कुण्डलिनि! नमोऽस्तु ते ॥ २२॥

कलावति! नभस्तुभ्यं मन्त्रवाहिनि! ते नमः ।
मङ्गले!  च नमस्तुभ्यं श्रीजयन्ति! नमोऽस्तु ते ॥ २३॥

अथान्यनामानि -
चण्डिके!  च नमस्तुभ्यं दुर्गे!  देवि!  नमोऽस्तु ते ।
स्वाहारूपे नमस्तुभ्यं स्वधारूपे नमोऽस्तु ते ॥ २४॥

प्रत्यङ्गिरे नमस्तुभ्यं गोत्रदेवि नमोऽस्तु ते ।
शिवे!  कृष्णे नमस्तुभ्यं नमः कैटभनाशिनि ॥ २५॥

कात्यायनि!  नमस्तुभ्यं नमो धूम्रविनाशिनि!
नारायणि!  नमस्तुभ्यं नमो महिषखण्डिनि! ॥ २६॥

सहस्राक्षि! नमस्तुभ्यं नमश्चण्डविनाशिनि!
तपस्विनि! नमस्तुभ्यं नमो मुण्डविनाशिनि! ॥ २७॥

अग्निज्वाले! नमस्तुभ्यं नमो निशुम्भखण्डिनि!
भद्रकालि!  नमस्तुभ्यं मधुमर्दिनि! ते नमः ॥ २८॥

महाबले!  नमस्तुभ्यं शुम्भखण्डिनि! ते नमः ।
श्रुतिमयि! नमस्तुभ्यं रक्तबीजवधे! नमः ॥ २९॥

धृतिमयि! नमस्तुभ्यं दैत्यमर्दिनि! ते नमः ।
दिवागते! नमस्तुभ्यं ब्रह्मदायिनि! ते नभः ॥ ३०॥

माये! क्रिये!  नमस्तुभ्यं श्रीमालिनि! नमोऽस्तु ते ।
मधुमति! नमस्तुभ्यं कले! कालि! नमोऽस्तु ते ॥ ३१॥

श्रीमातङ्गि नमस्तुभ्यं विजये!  च नमोऽस्तु ते ।
जयदे! च नमस्तुभ्यं श्रीशाम्भवि! नमोऽस्तु ते ॥ ३२॥

त्रिनयने नमस्तुभ्यं नमः शङ्करवल्लभे! ।
वाग्वादिनि नमस्तुभ्यं श्रीभैरवि! नमोऽस्तु ते ॥ ३३॥

मन्त्रमयि! नमस्तुभ्यं क्षेमङ्करि! नमोऽस्तु ते ।
त्रिपुरे!  च नमस्तुभ्यं तारे शबरि!  ते नमः ॥ ३४॥

हरसिद्धे! नमस्तुभ्यं ब्रह्मवादिनि!  ते नमः ।
अङ्गे!  वङ्गे!  नमस्तुभ्यं कालिके! च नमोऽस्तु ते ॥ ३५॥

उमे! नन्दे!  नमस्तुभ्यं यमघण्टे! नमोऽस्तु ते ।
श्रीकौमारि! नमस्तुभ्यं वातकारिणि! ते नमः ॥ ३६॥

दीर्घदंष्ट्रे! नमस्तुभ्यं महादंष्ट्रे! नमोऽस्तु ते ।
प्रभे!  रौद्रि!  नमस्तुभ्यं सुप्रभे!  ते नमो नमः ॥ ३७॥

महाक्षमे! नमस्तुभ्यं क्षमाकारि! नमोऽस्तु ते ।
सुतारिके! नमस्तुभ्यं भद्रकालि!  नमोऽस्तु ते ॥ ३८॥

चन्द्रावति नमस्तुभ्यं वनदेवि नमोऽस्तु ते ।
नारसिंहि!  नमस्तुभ्यं महाविद्ये!  नमोऽस्तु ते ॥ ३९॥

अग्निहोत्रि! नमस्तुभ्यं सूर्यपुत्रि! नमोऽस्तु ते ।
सुशीतले!  नमस्तुभ्यं ज्वालामुखि!  नमोऽस्तु ते ॥ ४०॥

सुमङ्गले!  नमस्तुभ्यं वैश्वानरि! नमोऽस्तु ते
निरञ्जने!  नमस्तुभ्यं श्रीवैष्णवि! नमोऽस्तु ते ॥ ४१॥

श्रीवाराहि! नमस्तुभ्यं तोतलायै नमो नमः ।
कुरुकुल्ले! नमस्तुभ्यं भैरवपत्नि! ते नमः ॥ ४२॥

अथागमोक्तनामानि स्वयमूह्यानि पण्डितैः ।
कथ्यन्ते कानि नामानि प्रसिद्धानि तथा न वा ॥ ४३॥

हेमकान्ते! नमस्तुभ्यं हिङ्गुलायै नमो नमः ।
यज्ञविद्ये नमस्तुभ्यं वेदमातर्नमोऽस्तु ते ॥ ४४॥

श्रीमृडानि नमस्तुभ्यं विन्ध्यवासिनि ते नमः ।
पृथ्वीज्योत्सने! नमस्तुभ्यं नमो नारदसेविते! ॥ ४५॥

प्रह्लादिनि! नमस्तुभ्यमपर्णायै नमो नमः ।
जैनेश्वरि! नमस्तुभ्यं सिंहगामिनि! ते नमः ॥ ४६॥

बौद्धमातर्नमस्तुभ्यं जिनमातर्नमोऽस्तु ते ।
ॐ कारे च नमस्तुभ्यं राज्यलक्ष्भि! नमोऽस्तु ते ॥ ४७॥

सुधात्मिके! नमस्तुभ्यं राजनीते! नमोऽस्तु ते ।
मन्दाकिनि!  नमस्तुभ्यं गोदावरि!  नमोऽस्तु ते ॥ ४८॥

पताकिनि! नमस्तुभ्यं भगमालिनि!  ते नमः ।
वज्रायुधे! नमस्तुभ्यं परापरकले! नमः ॥ ४९॥

वज्रहस्ते! नमस्तुभ्यं मोक्षदायिनि! ते नमः ।
शतबाहु नमस्तुभ्यं कुलवासिनि ते नमः ॥ ५०॥

श्रीत्रिशक्ते नमस्तुभ्यं नमश्चण्डपराक्रमे ।
महाभुजे!  नमस्तुभ्यं नमः षट्वक्रभेदिनि! ॥ ५१॥

नभःश्यामे! नमस्तुभ्यं षट्चक्रक्रमवासिनि! ।
वसुप्रिये! नमस्तुभ्यं रक्तादिनि! नमो नमः ॥ ५२॥

महामुद्रे! नमस्तुभ्यमेकचक्षुर्नमोऽस्तु ते ।
पुष्पबाणे! नमस्तुभ्यं खगगामिनि ते नमः ॥ ५३॥

मधुमत्ते! नमस्तुभ्यं बहुवर्णे! नमो नमः ।
मदोद्धते! नमस्तुभ्यं इन्द्रचापिनि! ते नमः ॥ ५४॥

चक्रहस्ते! नमस्तुभ्यं श्रीखड्गिनि! नमो नभः ।
शक्तिहस्ते! नमस्तुभ्यं नमस्त्रिशूलधारिणि! ॥ ५५॥

वसुधारे!  नमस्तुभ्यं नमो मयूरवाहिनि! ।
जालन्धरे! नमस्तुभ्यं सुबाणायै! नमो नमः ॥ ५६॥

अनन्तर्वीर्ये! नमस्तुभ्यं वरायुधधरे! नमः ।
वृषप्रिये! नमस्तुभ्यं शत्रुनाशिनि! ते नमः ॥ ५७॥

वेदशक्ते! नमस्तुभ्यं वरधारिणि! ते नमः ।
वृषारूढं! नमस्तुभ्यं वरदायै! नमो नमः ॥ ५८॥

शिवदूति! नमस्तुभ्यं नमो धर्मपरायणे! ।
घनध्वनि! नमस्तुभ्यं षट्कोणायै! नमो नमः ॥ ५९॥

जगद्गर्भे! नमस्तुभ्यं त्रिकोणायै! नमोनमः ।
निराधारे! नमस्तुभ्यं सत्यमार्गप्रबोधिनि! ॥ ६०॥

निराश्रये!  नमस्तुभ्यं छत्रच्छायाकृतालये! ।
निराकारे!  नमस्तुभ्यं वह्निकुण्डकृतालये! ॥ ६१॥

प्रभावति!  नमस्तुभ्यं रोगनाशिनि! ते नमः ।
तपोनिष्टे! नमस्तुभ्यं सिद्धिदायिनि! ते नमः ॥ ६२॥

त्रिसन्ध्यिके! नमस्तुभ्यं दृढबन्धविमोक्षणि! ।
तपोयुक्ते! नमस्तुभ्यं काराबन्धविमोचनि! ॥ ६३॥

मेघमाले! नमस्तुभ्यं भ्रमनाशिनि! ते नमः ।
ह्रीङ्क्लीङ्कारि! नमस्तुभ्यं सामगायनि! ते नमः ॥ ६४॥

ॐ ऐंरूपे!  नमस्तुभ्यं बीजरूपं!  नमोऽस्तु ते ।
नृपवश्ये!  नमस्तुभ्यं शस्यवर्द्धिनि!  ते नमः ॥ ६५॥

नृपसेव्ये!  नमस्तुभ्यं धनवर्द्धिनि!  ते नमः ।
नृपमान्ये!  नमस्तुभ्यं लोकवश्यविधायिनि! ॥ ६६॥

नमः सर्वाक्षरमयि!  वर्णमालिनि!  ते नमः ।
श्रीब्रह्माणि!  नमस्तुभ्यं चतुराश्रमवासिनि! ॥ ६७॥

शास्त्रमयि!  नमस्तुभ्यं वरशस्त्रास्त्रधारिणि! ।
तुष्टिदे!  च नमस्तुभ्यं पापनाशिनि!  ते नमः ॥ ६८॥

पुष्टिदे!  च नमस्तुभ्यमार्तिनाशिनि!  ते नमः ।
धर्मदे!  च नमस्तुभ्यं गायत्रीमयि!  ते नमः ॥ ६९॥

कविप्रिये!  नमस्तुभ्यं चतुर्वर्गफलप्रदे! ।
जगज्जीवे!  नमस्तुभ्यं त्रिवर्गफलदायिनि! ॥ ७०॥

जगद्बीजे!  नमस्तुभ्यमष्टसिद्धिप्रदे!  नमः ।
मातङ्गिनि!  नमस्तुभ्यं नमो वेदाङ्गधारिणि! ॥ ७१॥

हंसगते!  नमस्तुभ्यं परमार्थप्रबोधिनि!
चतुर्बाहु!  नमस्तुभ्यं शैलवासिनि! ते नमः ॥ ७२॥

चतुर्मुखि!  नमस्तुभ्यं द्युतिवर्द्धिनि!  ते नमः ।
चतुःसमुद्रशयिनि!  तुभ्यं देवि!  नमो नमः ॥ ७३॥

कविशक्ते!  नमस्तुभ्यं कलिनाशिनि!  ते नमः ।
कवित्वदे!  नमस्तुभ्यं मत्तमातङ्गगामिनि! ॥ ७४॥
॥ इति देवीस्तोत्रम् समाप्तम् ॥
जय मां सरस्वती जय मां लक्ष्मी जय मां पार्वती जय मां सीता जय मां काली जय मां भवानी जय मां संतोषी।
जय मां शारदे

Comments